॥चायदिवसे चायमहिमा॥
☕☕
(पन्तोपाह्व सुरेश:)
न त्वहं कामये लक्ष्मीं प्रोन्नतिं वा महत्पदम्।
त्रिसन्ध्यं चषके चायं काॅफीम्वा यच्छ हे प्रभो !
धनं मास्तु यशो मास्तु तत्किञ्चिन्नैव रोचते।
चायं देह्यथवा कॉफीम्त्रिवारं तु दिने दिने॥
रोगशोकादिशमनं श्रमखेदहरं तथा।
चायपानं सदा कुर्यात् त्रिसंध्यं श्रद्धयान्वितः।
सत्ये अमृतपानं स्यात् त्रेतायां सोमपानकम्।
द्वापरे गोरसं श्रेष्ठं चाय-कॉफी कलौयुगे ॥
चायपानसमं किञ्चित्पानं नास्ति महीतले।
जन्ममृत्युजराव्याधिदु:खं नैवोपजायते।
कात्यायनो महर्षिश्च एवमूचे हि वार्त्तिके
पठितं भविता सर्वै: 'समाहारे चायमिष्यते'।।
No comments:
Post a Comment